अन्धं तमः प्रविशन्ति ये अविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ।।
इति उपनिषत्सु अविद्योपासकानां तमः प्राप्तिः प्रतिपाद्यते । परं यथार्थज्ञानस्योपासकाः अधिकपापिनः भवन्तीति तेषामधिकतमः प्राप्तिः विहिता । अहो अस्मच्छास्त्रस्य विचित्रवैखरी । किं यथार्थोपासनं दोषाय भवति? किं अयथार्थोपासनमेव यथार्थोपासनापेक्षया श्रेष्ठं इति जिज्ञासूनां चेतसि चकास्ति ।ततो भूय इव ते तमो य उ विद्यायां रताः ।।
तत्र श्रीमध्वमुनिः शङ्कायाः अस्याः विच्छेदं इत्थं चकार । तदित्थं -
अप्राप्तत्यागिनो हि प्राप्तनिष्ठाहीनो हि अधिकदोषभाक् भवति । किमर्थं इति चेत् -
सम्यगाचार्यवचनमवज्ञाय विरोधिनिनि ।
सत्वबुद्धिं यतः कुर्युस्ततस्ते अधिकपापिनः ।।
गुरूपदेशेन यथार्थज्ञानं प्राप्यापि यतः ते गुरुं अवज्ञाय तद्विरोधिनि अयथार्थज्ञाने सत्वबुद्धिं कुर्वन्ति अतः ते अधिकपापिनः एव भवन्ति ।सत्वबुद्धिं यतः कुर्युस्ततस्ते अधिकपापिनः ।।
अतः यावच्छक्ति अयथार्थज्ञानस्य निन्दा कार्या विद्वद्भिः ।।
1 comment:
I like your post.
Meridian real estate
Post a Comment