आश्रमपरिसरः

My photo
1285,10th Main, Vijayanagar, Bangalore, India
त्वमस्माकं तवस्मसि - एष वः पन्थाः सुकृतस्य लोके

Saturday, November 1, 2008

ओंकारः पञ्चप्रयोजनः

सुविदितमेवैतत् यत् सूत्रादौ ओंकारः सर्वैः सूत्रकारैः नियमेन आदौ प्रयुक्त इति । तत्र किं कारणम् । किं वा ओंकारस्य प्रयोजनमिति किञ्चित् जानीमः ।
मङ्गलास्रवणे युक्तिविशेषद्योतनं तथा ।
मीमांसानुग्राह्यमानकीर्तनं पूर्वतन्त्रतः ।
अगतार्थतासूचनं चेत्येवं पञ्चप्रयोजनः ।
सूत्रप्राथमिकोंकारः श्रुतिसिद्धोवधारितः ।।

तत्र तावत् ब्रह्मसूत्राणामादौ प्रयुक्तस्य ओंकारस्य विद्यन्ते पञ्चप्रयोजनानि । तानि च यथा -
1. मङ्गलार्थः
ओंकारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ । इति वचनबलेन ओंकारस्य माङ्गलिकत्वं प्रथमप्रयोजनमिति विज्ञायते ।
2. स्रवणाभावार्थः
स्रवत्यनोंकृतं ब्रह्म परस्ताच्च विशीर्यते - इति प्रमाणानुसारेण ब्रह्मविद्यायाः आदौ ओंकारानुच्चरणे पुण्यह्रासो भविष्यति । परस्ताच्चानुच्चरणे प्राप्तपुण्यं नश्यति इति कारणतः भवति पुण्यस्रवणाभावः ओंकारस्य द्वितीयं प्रयोजनम् ।
3. विषयत्वोपपादक-गुणपूर्णत्वयुक्तिसूचनार्थः
ओंकारस्तावत् गुणपूर्णत्ववाचकः । जीवस्य स्वप्राकशतया नित्यसिद्धत्वेपि गुणपूर्णस्य ब्रह्मणः असिद्धत्वात् भवति गुणपूर्णं ब्रह्म शास्त्र विषयः इति विषयत्वोपपादक-गुणपूर्णत्वयुक्तिसूचनार्थं ओंकारः सूत्रे प्रयुक्तः इति भवतीदं तृतीयं प्रयोजनम् ।
4. मीमांसानुग्राह्य-मानसूचनार्थः
मीमांसा नाम प्रमाणानुग्राहकं शास्त्रम् । इदं च अनुग्राह्यं प्रमाणं किञ्चिदपेक्षते । केचन मीमांसानुग्राह्यप्रमाणस्यैवाभावात् न कर्तव्यैव मीमासेत्याक्षिपन्ति । परं अस्ति तादृशमनुग्राह्यं प्रमाणं यद्मीमांसया अनुगृह्येत इति सूचनाय सूत्रादौ ओंकारः सूत्रकारैः प्रयुक्तः । यतो हि व्याहृतिः ओंकारस्य व्याख्यानरूपा । तस्याश्च व्याख्यानरूपा गायत्री । गायत्र्याः व्याख्यानं पुरुषसूक्तम् । पुरुषसूक्तस्य व्यख्यानं सर्वो वेदः । इत्थं च ओंकारप्रयोगेण तद्व्याख्यानभूतवेद एव मीमांसानुग्राह्यप्रमाणमिति विज्ञाते ।
5. पूर्वतन्त्रतः अगतार्थतासूचनार्थः
नन्वस्ति तावत् वेदविचारपरं पूर्वमीमांसाशास्त्रम् । किं पुनः वेदविचाराय शास्त्रान्तररचनप्रयासेन इति केचिच्छङ्कन्ते । तच्छङ्काव्युदासाय सूत्रकारेण ओंकारः प्रयुक्तः । पूर्वमीमांसया अपरममुख्यार्थवेदैकदेशभूतधर्मो विचार्यते । ब्रह्ममीमांसया तु समग्रस्यापि वेदस्य मुख्यार्थो निर्णीयते इत्यस्ति तस्याः अपूर्वतेत्यनेन गतार्थताशङ्का निरस्ता भवतीति भवतीदं चरमप्रयोजनं ओंकारस्य इति ।

No comments: