आश्रमपरिसरः

My photo
1285,10th Main, Vijayanagar, Bangalore, India
त्वमस्माकं तवस्मसि - एष वः पन्थाः सुकृतस्य लोके

Tuesday, July 7, 2009

सर्वात्मना ब्रह्मकुलं निषेव्यताम्

विदितमेवेदं यत् भगवन्माययोरुगुणनिबन्धनेस्मिन् सांसारिके पथि अतिश्रमेण चरन्तः नष्टस्मृतयः आत्मोद्धारोपायमजानन्तः परिखिन्ना वयं न कथञ्चिदपि महादुःखाकूपारस्यास्य पारं गन्तुं प्रभवाम, न कयापि युक्त्या मायामोहात् स्वात्मानं उद्धराम महदनुग्रहमन्तरेण । भगवद्धर्मपरैः विनीतैरस्माभिः यत्सेवयाशेषगुहाश्रयः स्वराड् विप्रप्रियः ईश्वरः कामं तुष्यति तादृशब्रह्मकुलं सर्वदा निषेव्यताम् ।
अत उक्तं भागवते -
यत्सेवयाशेषगुहाश्रयः स्वराड्विप्रप्रियस्तुष्यति काममीश्वरः ।
तदेव तद्धर्मपरैर्विनीतैः सर्वात्मना ब्रह्मकुलं निषेव्यताम् ।।

Friday, March 6, 2009

हृदिस्थं कुरु केशवम्

अहो बतास्मिन् घोरातिघोरदुःखपरिप्लुते कलौ युगे परिखिन्नानां संसाराकूपारपारं जिगमिषतां मन्दानां मन्दभाग्यानां मन्दमतीनां ह्युपद्रुतानां, अनृत-तन्द्रा-निद्रा-हिंसा-विषाद-शोक-मोह-भय-दैन्यादीनां चिरन्तनावसभुवां म्रियमाणानां को वा उद्धरणोपायः इति विमृशतामस्मादृशानां ऊषरेऽमृतबिन्दुरिव शुकमखविगलिता भागवतामृतरसधारा निखिलकलिकृतकल्मषप्रक्षालनाय, विद्या-तपः-प्राणनिरोध-मैत्री-तीर्थ-अभिषेक-व्रत-दान-जाप्यैरलभमानात्यन्तशुद्धिसम्पादनाय, हृदयग्रन्थिविभेधनाय आत्यन्तिकोपशमाय हृदयकमले परमेश्वराभिध्यानमेवालं नान्यदित्युद्धोषयन्ती वर्वर्ति ।
तदुक्तं -
तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् ।
म्रियमाणो ह्यवहितस्ततो यासि परां गतिम् ।। भा 12.3.49 इति ।

दोषनिधेः कलेरयमेक एव महान् गुणः यत् कीर्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् । कृते विष्णुं ध्यायतो यत् फलं, त्रेतायां मखैः यजतो यत् फलं, द्वापरे परिचर्यायां कृतायां यत् फलं तत्कलौ हरिकीर्तनादेव लभ्यते । चित्तस्थो हि भगवान् पुरुषोत्तमः द्रव्यदेशात्मसम्भवान् पुंसां निखिलान् कलिकृतान् दोषान् हरति ।

तस्मात् त्वमपि जगतां परमं गुरुं, त्रिलोकनाथनाथं, भगवन्तमच्युतं पाखण्डविभिन्नचेतः सन् यज । हृदिस्थं कुरु केशवम् । जहि शोकम् । भज शम् ।।

Tuesday, November 4, 2008

अप्राप्रत्यागिनो प्राप्तनिष्ठाहीनो हि दोषवान्

अन्धं तमः प्रविशन्ति ये अविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ।।
इति उपनिषत्सु अविद्योपासकानां तमः प्राप्तिः प्रतिपाद्यते । परं यथार्थज्ञानस्योपासकाः अधिकपापिनः भवन्तीति तेषामधिकतमः प्राप्तिः विहिता । अहो अस्मच्छास्त्रस्य विचित्रवैखरी । किं यथार्थोपासनं दोषाय भवति? किं अयथार्थोपासनमेव यथार्थोपासनापेक्षया श्रेष्ठं इति जिज्ञासूनां चेतसि चकास्ति ।
तत्र श्रीमध्वमुनिः शङ्कायाः अस्याः विच्छेदं इत्थं चकार । तदित्थं -

अप्राप्तत्यागिनो हि प्राप्तनिष्ठाहीनो हि अधिकदोषभाक् भवति । किमर्थं इति चेत् -
सम्यगाचार्यवचनमवज्ञाय विरोधिनिनि ।
सत्वबुद्धिं यतः कुर्युस्ततस्ते अधिकपापिनः ।।
गुरूपदेशेन यथार्थज्ञानं प्राप्यापि यतः ते गुरुं अवज्ञाय तद्विरोधिनि अयथार्थज्ञाने सत्वबुद्धिं कुर्वन्ति अतः ते अधिकपापिनः एव भवन्ति ।
अतः यावच्छक्ति अयथार्थज्ञानस्य निन्दा कार्या विद्वद्भिः ।।

Monday, November 3, 2008

शरवत्तन्मयो भवेत्

मनुष्यः यावत्तन्मयो न भवति तावत् स्वलक्ष्यं अधिगन्तुं नैव प्रभवति । सा धनुर्विद्या वा भवेत् ब्रह्मविद्या वा अपरा काचिल्लौकिकविद्या वा भवेत् । श्रद्धया एकाग्रचित्तेन विहितः प्रयत्नः फलवान् भविष्यति । यावत् स्वलक्ष्यस्य दुरधिगमता तावत् तन्मयता अपि अधिकतरा भवेदेव ।

तच्च यदि लक्ष्यं परब्रह्मैव भवेत् तर्हि कीदृशी तन्मयता भवेत्? कथं वा परब्रह्माख्यं लक्ष्यं विध्यात् ?

चतुर्दशविद्यासु मूर्धन्यस्थानालङ्कृता परविद्या इति विद्यासिंहासनाधिष्ठिता या ब्रह्मविद्या तस्याः उपदेशः इत्थमस्ति -

धनुर्गृहीत्वौपनिषदं महास्त्रं
शरं ह्युपासानिशितं सन्दधीत ।
आयम्य तद्भावगतेन चेतसा
लक्ष्यं तदेवाक्षतं सोम्य विद्धि ।।

यथा लक्ष्यं वस्तु धानुष्का धनुर्गृहीत्वा शरेण विध्यन्ति तथा मुमुक्षुरधिकारी उपनिषदर्थभूतप्रणवार्थपर्यालोचनया मनसा ब्रह्म सावधानं जानीयात् इति ।

तत्र किं वा धनुः कश्च शरः इत्याकाङ्क्षायामाह स्वयं वेदपुरुषः

प्रणवो धनुः शरो ह्यात्मा ब्रह्मतल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।।

यथा शरो लक्ष्ये संल्लग्नो भवति एवं जीवोपि तन्मयः प्रणवप्रतिपाद्ये ब्रह्मण्येव संल्लग्नचित्तो भवेदिति ।।

Sunday, November 2, 2008

गृहेष्वतिथिवद्वसेत्

गीता नाम श्रीकृष्णेनार्जुनं प्रति उपदिष्टा गीता एवेति नो चेतसि चकास्ति । परं श्रीमद्भागवते श्रीकृष्णेनोद्धवं प्रति अन्या गीता उपदिष्टा या उद्धवगीता इति नाम्ना प्रसिद्धिं गता । तत्रोद्धवेन प्रार्थितः श्रीकृष्णः ब्राह्मणादि-गृहस्थादि-वर्णाश्रमधर्मान् वदन् गृहस्थं एवं अवबोधयति -
पुत्रदाराप्तबन्धूनां सङ्गमः पान्थसङ्गमः ।
अनुदेहं भवन्त्येते स्वप्नो निद्रानुगो यथा ।।
यथा स्वप्नः निद्रानुगो भवत्येवेति न तत्प्राप्त्यर्थं कश्चित् बुद्धिमान् यतते एवं स्वयत्नाभावेपि पुत्रदारादिप्राप्तेर्न तदुद्देशेन यजेत इति । यदृच्छया प्राप्तगृहातिस्तु अतिथिः यथा अनासक्तो वसति तद्वदनासक्त एव वसेत् । तदुक्तं -
इत्थं परिमृशन् युक्तो गृहेष्वतिथिवद्वसेत् । इति ।।

Saturday, November 1, 2008

ओंकारः पञ्चप्रयोजनः

सुविदितमेवैतत् यत् सूत्रादौ ओंकारः सर्वैः सूत्रकारैः नियमेन आदौ प्रयुक्त इति । तत्र किं कारणम् । किं वा ओंकारस्य प्रयोजनमिति किञ्चित् जानीमः ।
मङ्गलास्रवणे युक्तिविशेषद्योतनं तथा ।
मीमांसानुग्राह्यमानकीर्तनं पूर्वतन्त्रतः ।
अगतार्थतासूचनं चेत्येवं पञ्चप्रयोजनः ।
सूत्रप्राथमिकोंकारः श्रुतिसिद्धोवधारितः ।।

तत्र तावत् ब्रह्मसूत्राणामादौ प्रयुक्तस्य ओंकारस्य विद्यन्ते पञ्चप्रयोजनानि । तानि च यथा -
1. मङ्गलार्थः
ओंकारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ । इति वचनबलेन ओंकारस्य माङ्गलिकत्वं प्रथमप्रयोजनमिति विज्ञायते ।
2. स्रवणाभावार्थः
स्रवत्यनोंकृतं ब्रह्म परस्ताच्च विशीर्यते - इति प्रमाणानुसारेण ब्रह्मविद्यायाः आदौ ओंकारानुच्चरणे पुण्यह्रासो भविष्यति । परस्ताच्चानुच्चरणे प्राप्तपुण्यं नश्यति इति कारणतः भवति पुण्यस्रवणाभावः ओंकारस्य द्वितीयं प्रयोजनम् ।
3. विषयत्वोपपादक-गुणपूर्णत्वयुक्तिसूचनार्थः
ओंकारस्तावत् गुणपूर्णत्ववाचकः । जीवस्य स्वप्राकशतया नित्यसिद्धत्वेपि गुणपूर्णस्य ब्रह्मणः असिद्धत्वात् भवति गुणपूर्णं ब्रह्म शास्त्र विषयः इति विषयत्वोपपादक-गुणपूर्णत्वयुक्तिसूचनार्थं ओंकारः सूत्रे प्रयुक्तः इति भवतीदं तृतीयं प्रयोजनम् ।
4. मीमांसानुग्राह्य-मानसूचनार्थः
मीमांसा नाम प्रमाणानुग्राहकं शास्त्रम् । इदं च अनुग्राह्यं प्रमाणं किञ्चिदपेक्षते । केचन मीमांसानुग्राह्यप्रमाणस्यैवाभावात् न कर्तव्यैव मीमासेत्याक्षिपन्ति । परं अस्ति तादृशमनुग्राह्यं प्रमाणं यद्मीमांसया अनुगृह्येत इति सूचनाय सूत्रादौ ओंकारः सूत्रकारैः प्रयुक्तः । यतो हि व्याहृतिः ओंकारस्य व्याख्यानरूपा । तस्याश्च व्याख्यानरूपा गायत्री । गायत्र्याः व्याख्यानं पुरुषसूक्तम् । पुरुषसूक्तस्य व्यख्यानं सर्वो वेदः । इत्थं च ओंकारप्रयोगेण तद्व्याख्यानभूतवेद एव मीमांसानुग्राह्यप्रमाणमिति विज्ञाते ।
5. पूर्वतन्त्रतः अगतार्थतासूचनार्थः
नन्वस्ति तावत् वेदविचारपरं पूर्वमीमांसाशास्त्रम् । किं पुनः वेदविचाराय शास्त्रान्तररचनप्रयासेन इति केचिच्छङ्कन्ते । तच्छङ्काव्युदासाय सूत्रकारेण ओंकारः प्रयुक्तः । पूर्वमीमांसया अपरममुख्यार्थवेदैकदेशभूतधर्मो विचार्यते । ब्रह्ममीमांसया तु समग्रस्यापि वेदस्य मुख्यार्थो निर्णीयते इत्यस्ति तस्याः अपूर्वतेत्यनेन गतार्थताशङ्का निरस्ता भवतीति भवतीदं चरमप्रयोजनं ओंकारस्य इति ।

Friday, October 31, 2008

देवाः कथं रक्षन्ति?

देवाः विष्णुभक्तान् सदा रक्षितुमिच्छन्ति । किन्तु कश्चित् पशुपालः यथा पशून् यष्टिमादाय रक्षति तथा न रक्षन्ति । अपि तु यं रक्षितुमिच्छन्ति तं बुध्या संयोजयन्ति । यथेक्तं -
न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।
यं हि रक्षितुमिच्छन्ति बुध्या संयोजयन्ति तम् ।।