आश्रमपरिसरः

My photo
1285,10th Main, Vijayanagar, Bangalore, India
त्वमस्माकं तवस्मसि - एष वः पन्थाः सुकृतस्य लोके

Friday, March 6, 2009

हृदिस्थं कुरु केशवम्

अहो बतास्मिन् घोरातिघोरदुःखपरिप्लुते कलौ युगे परिखिन्नानां संसाराकूपारपारं जिगमिषतां मन्दानां मन्दभाग्यानां मन्दमतीनां ह्युपद्रुतानां, अनृत-तन्द्रा-निद्रा-हिंसा-विषाद-शोक-मोह-भय-दैन्यादीनां चिरन्तनावसभुवां म्रियमाणानां को वा उद्धरणोपायः इति विमृशतामस्मादृशानां ऊषरेऽमृतबिन्दुरिव शुकमखविगलिता भागवतामृतरसधारा निखिलकलिकृतकल्मषप्रक्षालनाय, विद्या-तपः-प्राणनिरोध-मैत्री-तीर्थ-अभिषेक-व्रत-दान-जाप्यैरलभमानात्यन्तशुद्धिसम्पादनाय, हृदयग्रन्थिविभेधनाय आत्यन्तिकोपशमाय हृदयकमले परमेश्वराभिध्यानमेवालं नान्यदित्युद्धोषयन्ती वर्वर्ति ।
तदुक्तं -
तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् ।
म्रियमाणो ह्यवहितस्ततो यासि परां गतिम् ।। भा 12.3.49 इति ।

दोषनिधेः कलेरयमेक एव महान् गुणः यत् कीर्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् । कृते विष्णुं ध्यायतो यत् फलं, त्रेतायां मखैः यजतो यत् फलं, द्वापरे परिचर्यायां कृतायां यत् फलं तत्कलौ हरिकीर्तनादेव लभ्यते । चित्तस्थो हि भगवान् पुरुषोत्तमः द्रव्यदेशात्मसम्भवान् पुंसां निखिलान् कलिकृतान् दोषान् हरति ।

तस्मात् त्वमपि जगतां परमं गुरुं, त्रिलोकनाथनाथं, भगवन्तमच्युतं पाखण्डविभिन्नचेतः सन् यज । हृदिस्थं कुरु केशवम् । जहि शोकम् । भज शम् ।।