आश्रमपरिसरः

My photo
1285,10th Main, Vijayanagar, Bangalore, India
त्वमस्माकं तवस्मसि - एष वः पन्थाः सुकृतस्य लोके
Showing posts with label भक्ति. Show all posts
Showing posts with label भक्ति. Show all posts

Friday, March 6, 2009

हृदिस्थं कुरु केशवम्

अहो बतास्मिन् घोरातिघोरदुःखपरिप्लुते कलौ युगे परिखिन्नानां संसाराकूपारपारं जिगमिषतां मन्दानां मन्दभाग्यानां मन्दमतीनां ह्युपद्रुतानां, अनृत-तन्द्रा-निद्रा-हिंसा-विषाद-शोक-मोह-भय-दैन्यादीनां चिरन्तनावसभुवां म्रियमाणानां को वा उद्धरणोपायः इति विमृशतामस्मादृशानां ऊषरेऽमृतबिन्दुरिव शुकमखविगलिता भागवतामृतरसधारा निखिलकलिकृतकल्मषप्रक्षालनाय, विद्या-तपः-प्राणनिरोध-मैत्री-तीर्थ-अभिषेक-व्रत-दान-जाप्यैरलभमानात्यन्तशुद्धिसम्पादनाय, हृदयग्रन्थिविभेधनाय आत्यन्तिकोपशमाय हृदयकमले परमेश्वराभिध्यानमेवालं नान्यदित्युद्धोषयन्ती वर्वर्ति ।
तदुक्तं -
तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् ।
म्रियमाणो ह्यवहितस्ततो यासि परां गतिम् ।। भा 12.3.49 इति ।

दोषनिधेः कलेरयमेक एव महान् गुणः यत् कीर्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् । कृते विष्णुं ध्यायतो यत् फलं, त्रेतायां मखैः यजतो यत् फलं, द्वापरे परिचर्यायां कृतायां यत् फलं तत्कलौ हरिकीर्तनादेव लभ्यते । चित्तस्थो हि भगवान् पुरुषोत्तमः द्रव्यदेशात्मसम्भवान् पुंसां निखिलान् कलिकृतान् दोषान् हरति ।

तस्मात् त्वमपि जगतां परमं गुरुं, त्रिलोकनाथनाथं, भगवन्तमच्युतं पाखण्डविभिन्नचेतः सन् यज । हृदिस्थं कुरु केशवम् । जहि शोकम् । भज शम् ।।