आश्रमपरिसरः

My photo
1285,10th Main, Vijayanagar, Bangalore, India
त्वमस्माकं तवस्मसि - एष वः पन्थाः सुकृतस्य लोके

Friday, October 31, 2008

देवाः कथं रक्षन्ति?

देवाः विष्णुभक्तान् सदा रक्षितुमिच्छन्ति । किन्तु कश्चित् पशुपालः यथा पशून् यष्टिमादाय रक्षति तथा न रक्षन्ति । अपि तु यं रक्षितुमिच्छन्ति तं बुध्या संयोजयन्ति । यथेक्तं -
न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।
यं हि रक्षितुमिच्छन्ति बुध्या संयोजयन्ति तम् ।।

Thursday, October 30, 2008

विष्णुपूजार्थयज्ञोहं

विष्णुपूजार्थयज्ञोहं इत्युपासनमादरात् ।
कुर्वीत सततं भक्त्या .. आचार्य श्रीमध्वः